(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.102. अध्यायः 102
Mahabharata - Vana Parva - Chapter Topics
विष्णुना समुद्रान्तर्हितदैत्यनिधने समुद्रशोपणस्योपायत्वं ज्ञापितैर्देवैर्ब्रह्मलोकगमनम् ॥ 1 ॥ ब्रह्मचोदनया देवैरगस्त्यमेत्य सागरशोषणप्रार्थनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

देवा ऊचुः। 3-102-0x(2041)(20087)
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः।
ता भाविता भावयनति हव्यकव्यैर्दिवौकसः ॥ 3-102-1(20088)
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः।
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ 3-102-2(20089)
इदं च समनुप्राप्तं लोकानां भयमुत्तमम्।
न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः ॥ 3-102-3(20090)
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति।
तत पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ 3-102-4(20091)
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ 3-102-5(20092)
विष्णुरुवाच। 3-102-6x(2042)
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ 3-102-6(20093)
कालेया इति विख्याता गणाः परमदारुणाः।
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम् ॥ 3-102-7(20094)
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ 3-102-8(20095)
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्।
उत्सादार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह ॥ 3-102-9(20096)
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते।
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् ॥ 3-102-10(20097)
`एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम्।
विष्णुमेव पुरस्कृत्यब्रह्माणं समुपस्थिताः ॥ 3-102-11(20098)
ततस्ते प्रणता भूत्वा तमेवार्धं न्यवेदयन्।
सर्वलोकविनाशार्थं कालेया कृतनिश्चयाः ॥ 3-102-12(20099)
एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः।
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः ॥ 3-102-13(20100)
विदितं मे सुराः सर्वे दानवानां विवेष्टितम्।
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः ॥ 3-102-14(20101)
क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये।
उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे ॥ 3-102-15(20102)
अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः।
तमुपागम्य सहिता इममर्थं प्रयाचत ॥ 3-102-16(20103)
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम्'।
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे ॥ 3-102-17(20104)
अन्यथा हि न शक्यास्ते विना सागरशोपणम्।
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ ॥ 3-102-18(20105)
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः।
परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः ॥ 3-102-19(20106)
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्।
उपास्यमानमृपिभिर्देवैरिव पितामहम् ॥ 3-102-20(20107)
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्।
आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः ॥ 3-102-21(20108)
देवा ऊचुः। 3-102-22x(2043)
नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ 3-102-22(20109)
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ 3-102-23(20110)
तमसा चावृतेलोके मृत्युनाऽभ्यर्दिताः प्रजाः।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ 3-102-24(20111)
अस्माकं भयभीतानां नित्यशो भगवान्गतिः।
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि ॥ 3-102-25(20112)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-102-1 चतुर्विधाः सुरनरतिर्यक्स्थावराः। दिवौकसः देवान् ॥ 3-102-20 वारुणिं मैत्रावरुणपुत्रम् ॥ 3-102-23 कोधात्प्रवृद्धस्तरसा भास्करस्य नगोतम इति झ. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.